|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.63. अध्यायः 063
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति राजधर्मप्रशंसकेन्द्रमांधातृसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-63-0x(6687)(80787)
चातुराश्रम्यधर्माश्च यतिधर्माश्च पाण्डव।
लोकवेदोत्तराश्चैव क्षात्रधर्मे समाहिताः॥ 12-63-1(80788)
सर्वाण्येतानि कर्माणि क्षात्रे भरतसत्तम।
निराशिषो जीवलोकाः क्षत्रधर्मे व्यवस्थिते॥ 12-63-2(80789)
अप्रत्यक्षं बहुफलं धर्ममाश्रमवासिनाम्।
प्ररूपयन्ति तद्भावमागमैरेव शाश्वतम्॥ 12-63-3(80790)
अपरे वचनैः पुण्यैर्वादिनो लोकनिश्चये।
अनिश्चयज्ञा धर्माणामदृष्टान्ते परे रताः॥ 12-63-4(80791)
प्रत्यक्षं फलभूयिष्ठमात्मसाक्षिकमच्छलम्।
सर्वलोकहितं धर्मं क्षत्रियेषु प्रतिष्ठितम्॥ 12-63-5(80792)
धर्माश्रमेऽध्यवसिनां ब्राह्मणानां युधिष्ठिर।
यथा त्रयाणां वर्णानां संख्यातोपश्रुतिः पुरा।
राजधर्मेष्वनुमता लोकाः सुचरितैः सह॥ 12-63-6(80793)
उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम्।
सर्वभूतेश्वरं देवं ब्राह्मं नारायणं पुरा।
जग्मुः सुबहुशः शूरा राजानो दण्डनीतये॥ 12-63-7(80794)
एकैकमात्मनः कर्म तुलयित्वाश्रमं पुरा।
जानः पर्युपासन्त दृष्टान्तवचने स्थिताः॥ 12-63-8(80795)
साध्या देवा वसवश्चाश्विनौ च
रुद्राश्च विश्वे मरुतां गणाश्च।
सृष्टाः पुरा ह्यादिदेवेन देवाः
क्षात्रे धर्मे वर्तयन्ते च सिद्धाः॥ 12-63-9(80796)
अत्र ते वर्तयिष्यामि धर्ममर्थविनिश्चये।
निर्मर्यादे वर्तमाने दानवैकार्णवे पुरा॥ 12-63-10(80797)
बभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान्।
पुरा वसुमतीपालो यज्ञं चक्रे दिदृक्षया॥ 12-63-11(80798)
अनादिमध्यनिधनं देवं नारायणं प्रभुम्।
स राजा राजशार्दूल मान्धाता परमेश्वरम्॥ 12-63-12(80799)
जगाम शिरसा पादौ यज्ञे विष्णोर्महात्मनः।
दर्शयामास तं विष्णू रूपमास्थाय वासवम्॥ 12-63-13(80800)
स पार्थिवैर्वृतः सद्भिरर्चयामास तं प्रभुम्।
तस्य पार्थिवसङ्घस्य तस्य चैव महात्मनः।
संवादोऽयं महानासीद्विष्णुं प्रति महाद्युतिम्॥ 12-63-14(80801)
इन्द्र उवाच। 12-63-15x(6688)
किमिष्यसे धर्मभूतां वरिष्ठ
यं द्रष्टुकामोऽसि तमप्रमेयम्।
अनन्तमायामितमन्त्रवीर्यं
नारायणं ह्यादिदेवं पुराणम्॥ 12-63-15(80802)
नासौ देवो विश्वरूपो मयाऽपि
शक्यो द्रष्टुं ब्रह्मणा वाऽपि साक्षात्
येऽन्ये कामास्तव राजन्हृदिस्था
दास्ये चैतांस्त्वं हि मर्त्येषु राजा॥ 12-63-16(80803)
सत्ये स्थितो धर्मपरो जितेन्द्रियः
शूरो दृढप्रीतिरतः सुराणाम्।
बुद्ध्या भक्त्या चोत्तमः श्रद्धया च
ततस्तेऽहं दझि वरान्यथेष्टम्॥ 12-63-17(80804)
मान्धातोवाच। 12-63-18x(6689)
असंशयं भगवन्नादिदेवं
वक्ष्यामि त्वाऽहं शिरसा संप्रसाद्य।
त्यक्त्वा कामान्धर्मकामो ह्यरण्य
मिच्छे गन्तुं सत्पथं साधुजुष्टम्॥ 12-63-18(80805)
क्षात्राद्धर्माद्विपुलादप्रमेया
श्लोकाः प्राप्ताः स्थापितं स्वं यशश्च।
धर्मो योऽसावादिदेवात्प्रवृत्तो
लोकश्रेष्ठं तं न जानामि कर्तुम्॥ 12-63-19(80806)
इन्द्र उवाच। 12-63-20x(6690)
असैनिका धर्मपराश्च धर्मे
परां गतिं न नयन्ते ह्ययुक्तम्।
क्षात्रो धर्मो ह्यादिदेवात्प्रवृत्तः
पश्चादन्ये शेषभूताश्च धर्माः॥ 12-63-20(80807)
शेषाः सृष्टा ह्यन्तवन्तो ह्यनन्ताः
सप्रस्थानाः क्षात्रधर्मा विशिष्टाः।
अस्मिन्धर्मे सर्वधर्माः प्रविष्टाः
क्षात्रं धर्मं श्रेष्ठतमं वदन्ति॥ 12-63-21(80808)
कर्मणा वै पुरा देवा ऋषयश्चामितौजसः।
त्राताः सर्वे प्रसह्यारीन्क्षत्रधर्मेण विष्णुना॥ 12-63-22(80809)
यदि ह्यसौ भगवन्नाहनिष्य
द्रिपू सर्वानसुरानप्रमेयः।
न च ब्रह्मा नैव लोकादिकर्ता
सन्तो धर्माश्चादिधर्माश्च न स्युः॥ 12-63-23(80810)
इमामुर्वी नाजयद्विक्रमेण
देवश्रेष्ठः सासुरामादिदेवः।
चातुर्वर्ण्यं चातुराश्रम्यधर्माः
सर्वे न स्युर्ब्राह्मणानां विनाशात्॥ 12-63-24(80811)
नष्टा धर्माः शतधा शाश्वतास्ते
क्षात्रेण धर्मेण पुनः प्रवृद्धाः।
युगेयुगे ह्यादिधर्माः प्रवृत्ता
लोकज्येष्ठं क्षात्रधर्मं वदन्ति॥ 12-63-25(80812)
आत्मत्यागः सर्वभूतानुकम्पा
लोकज्ञानं पालनं मोक्षणं च।
विषण्णानां मोक्षणं पीडितानां
क्षात्रे धर्मे विद्यते पार्थिवानाम्॥ 12-63-26(80813)
निर्मर्यादाः काममन्युप्रवृत्ता
भीता राज्ञो नाधिगच्छन्ति पापम्।
शिष्टाश्चान्ये सर्वधर्मोपपन्नाः
साध्वाचाराः साधुधर्मं वदन्ति॥ 12-63-27(80814)
पुत्रवत्पाल्यमानानि धर्मलिङ्गानि पार्थिवैः।
लोके भूतानि सर्वाणि चरन्ते नात्र संशयः॥ 12-63-28(80815)
सर्वधर्मपरं क्षात्रं लोकश्रेष्ठं सनातनम्।
शश्वदक्षरपर्यन्तमक्षरं सर्वतोमुखम्॥ ॥ 12-63-29(80816)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रिषष्टितमोऽध्यायः॥ 63॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-63-1 राजधर्माश्च पाण्डव। लोकालोकोत्तराश्चैव धर्माः क्षात्रे समर्पिता इति ट. ड.द. पाठः॥ 12-63-3 बहुद्वारमिति झ. पाठः॥ 12-63-4 अदृष्टान्ते न दृष्टोऽन्तो यस्य तस्मिन्॥ 12-63-5 सुखभूयिष्ठमिति झ. पाठः॥ 12-63-6 धर्माश्रमे गार्हस्थ्ये वर्णानां धर्माणां उपश्रुतिरन्तर्भावः संख्या प्रकटा। तथा राजधर्मेषु धर्मैः सह लोका अन्तर्भूताः। अनुलोमा राजधर्मो लोके सुचरितैरिहेति थ. द. पाठः॥ 12-63-8 आश्रमं आश्रमविहितं तुलयित्वा किं दण्डनीतिजो धर्मो महान् उत आश्रमधर्म इति संदिह्य दृष्टान्तवचने सिद्धान्तं श्रोतुम्॥ 12-63-13 वासयं ऐन्द्रं रूपम्॥ 12-63-20 न सन्ति सैनिका येषां ते असैनिकाः अराजानः युक्तं अभिनिवेशशून्यं यथा स्यात्तथा हेलयैव न नयन्ते इत्यर्थः। शेषभूताः अङ्गभूताः॥ 12-63-26 आत्मत्यागो युद्धे मरणम् 12-63-29 अक्षरपर्यन्तं मोक्षावसानम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|